(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.72. अध्यायः 072
Mahabharata - Udyoga Parva - Chapter Topics
श्रीकृष्णेन युधिष्ठिरंप्रति युद्धपक्षस्थिरीकरणपूर्वकं लोकसंशयनिरासाय शमार्थं प्रयतनकथनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

श्रीभगवानुवाच। 5-72-0x(3621)(34425)
सञ्जयस्य श्रुतं वाक्यं भवतश्च श्रुतं मया।
सर्वं जानाम्यभिप्रायं तेषां च भवतश्च यः ॥ 5-72-1(34426)
तव धर्माश्रिता बुद्धिस्तेषां वैराश्रया मतिः।
यदयुद्धेन लभ्येत तत्ते बहुमतं भवेत् ॥ 5-72-2(34427)
न चैवं नैष्ठिकं कर्म क्षत्रियस्य विशांपते।
आहुराश्रमिणः सर्वे न भैक्षं क्षत्रियश्चरेत् ॥ 5-72-3(34428)
जयो वधो वा सङ्ग्रामे धात्राऽऽदिष्टः सनातनः।
स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशत्यते ॥ 5-72-4(34429)
न हि कार्पण्यमास्थाय शक्या वृत्तिर्युधिष्ठिर ।
विक्रमस्व महाबाहो जहि शत्रून्परन्तप ॥ 5-72-5(34430)
अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः ।
कृतमित्राः कृतबला धार्तराष्ट्राः परन्तप ॥ 5-72-6(34431)
न पर्यायोऽस्ति यत्साम्यं त्वयि कुर्युर्विशांपते ।
बलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः ॥ 5-72-7(34432)
यावच्च मार्दवेनैतान्राजन्नुपचरिष्यसि।
तावदेते हरिष्यन्ति तव राज्यमरिन्दम ॥ 5-72-8(34433)
नानुक्रोशान्न कार्पण्यान्न च धर्मार्थकारणात्।
अलं कर्तुं धार्तराष्ट्रस्तव काममरिन्दम ॥ 5-72-9(34434)
एतदेव निमित्तं ते धार्तराष्ट्रो यथा त्वयि ।
नान्वतप्यत कोपेन तव कृत्वाऽपि दुष्करम् ॥ 5-72-10(34435)
पितामहस्य द्रोणस्य विदुरस्य च धीमतः ।
ब्राह्मणानां च साधूनां राज्ञश्च नगरस्य च ॥ 5-72-11(34436)
पश्यतां कुरुमुख्यानां सर्वेषामेव तत्त्वतः।
दानशीलं मृदुं दान्तं धर्मशीलमनुव्रतम् ॥ 5-72-12(34437)
यत्त्वामुपधिना राजन्द्यूते वञ्चितवांस्तदा ।
न चापत्रपते तेन नृशंसः स्वेन कर्मणा ॥ 5-72-13(34438)
तथाशीलसमाचरे राजन्मा प्रणयं कृथाः ।
वध्यास्ते सर्वलोकस्य किं पुनस्तव भारत ॥ 5-72-14(34439)
वाग्भिस्त्वप्रतिरूपाभिरतुदत्त्वां सहानुजम् ।
श्लाघमानः प्रहृष्टः सन्भ्रातृभिः सह भाषते ॥ 5-72-15(34440)
एतावत्पाण्डवानां हि नास्ति किंचिदिह स्वकम् ।
नामधेयं च गोत्रं च तदप्येषां न शिष्यते ॥ 5-72-16(34441)
कालेन महता चैषां भविष्यति पराभवः ।
प्रकृतिं ते भजिष्यन्ति नष्टप्रकृतयो मयि ॥ 5-72-17(34442)
दुःशासनेन पापेन तदा द्यूते प्रवर्तिते ।
अनाथवत्तदा देवी द्रौपदी सुदुरात्मना ॥ 5-72-18(34443)
आकृष्य केशे रुदती सभायां राजसंसदि ।
भीष्मद्रोणप्रमुखतो गौरिति व्याहृता मुहुः ॥ 5-72-19(34444)
भवता वारिताः सर्वे भ्रातरो भीमविक्रमाः ।
धर्मपाशनिबद्धाश्च न किंचित्प्रतिपेदिरे ॥ 5-72-20(34445)
एताश्चान्याश्च परुषा वाचः स समुदीरयन् ।
श्लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते वनम् ॥ 5-72-21(34446)
ये तत्रासन्समानीतास्ते दृष्ट्वा त्वामनागसम्।
अश्रुकण्ठा रुदन्तश्च सभायामासते सदा ॥ 5-72-22(34447)
न चैनमभ्यनन्दंस्ते राजानो ब्राह्मणैः सह।
सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः ॥ 5-72-23(34448)
कुलीनस्य च या निन्दा वधो वाऽमित्रकर्शन ।
महागुणो वधो राजन्नु तु निन्दा कुजीविका ॥ 5-72-24(34449)
तदैव निहतो राजन्यदैव निरपत्रपः।
निन्दितश्च महाराज पृथिव्यां सर्वराजभिः ॥ 5-72-25(34450)
ईषत्करो वधस्तस्य यस्य चारित्रमीदृशम् ।
प्रस्कुन्देन प्रतिस्तब्धश्छिन्नमूल इव द्रुमः ॥ 5-72-26(34451)
वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः ।
जह्येन त्वममित्रघ्न मा राजन्विचिकित्सिथाः ॥ 5-72-27(34452)
सर्वथा त्वत्क्षमं चैतद्रोचते च ममानघ।
यत्त्वं पितरि भीष्मे च प्रणिपातं समाचरेः ॥ 5-72-28(34453)
अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम्।
येषामस्ति द्विधाभावो राजन्दुर्योधनं प्रति ॥ 5-72-29(34454)
मध्ये राज्ञामहं तत्र प्रातिपौरुषिकान्गुणान् ।
तव सङ्कीर्तयिष्यामि ये च तस्य व्यतिक्रमाः ॥ 5-72-30(34455)
ब्रुवतस्तत्र मे वाक्यं धर्मार्थसहितं हितम्।
निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः ॥ 5-72-31(34456)
त्वयि संप्रतिपत्स्यन्ते धर्मात्मा सत्यवागिति ।
तस्मिंश्चाधिगमिष्यन्ति यथा लोभादवर्तत ॥ 5-72-32(34457)
गर्हयिष्यामि चैवैनं पौरजानपदेष्वपि ।
वृद्धबालानुपादाय चातुर्वर्ण्ये समागते ॥ 5-72-33(34458)
शमं वै याचमानस्त्वं नाधर्मं तत्र लप्स्यसे ।
कुरून्विगर्हयिष्यन्ति धृतराष्ट्रं च पार्थिवाः ॥ 5-72-34(34459)
तस्मिंल्लोकपरित्यक्ते किं कार्यमवशिष्यते।
हते दुर्योधने राजन्यदन्यत्क्रियतामिति ॥ 5-72-35(34460)
यात्वा चाहं कुरून्सर्वान्युष्मदर्थमहापयन् ।
यतिष्ये प्रशमं कर्तुं लक्षयिष्ये च चेष्टितम् ॥ 5-72-36(34461)
कौरवाणां प्रवृत्तिं च गत्वा युद्धाधिकारिकाम् ।
निशम्य विनिवर्तिष्ये जयाय तव भारत ॥ 5-72-37(34462)
सर्वथा युद्धमेवाहमाशंसापि परैः सह ।
निमित्तानि हि सर्वाणि तथा प्रादुर्भवन्ति मे ॥ 5-72-38(34463)
मृगाः शकुन्ताश्च वदन्ति घोरं
हस्त्यश्वमुख्येषु निशामुखेषु ।
घोराणि रूपाणि तथैव चाग्नि-
र्वर्णान्बहून्पुष्यति घोररूपान् ॥ 5-72-39(34464)
मनुष्यलोकक्षयकृत्सुघोरो
नो चेदनुप्राप्त इहान्तकः स्यात्।
शस्त्राणि यन्त्रं कवचान्रथांश्च
नागान्हयांश्च प्रतिपादयित्वा ॥ 5-72-40(34465)
योधाश्च सर्वे कृतनिश्चयास्ते
भवन्तु हस्त्यश्वरथेषु यत्ताः।
साङ्ग्रामिकं ते यदुपार्जनीयं
सर्वं समग्रं कुरु तन्नरेन्द्र ॥ 5-72-41(34466)
दुर्योधनो न ह्यलमद्य दातुं
जीवंस्तवैतन्नृपते कथंचित्।
यत्ते पुरस्तादभवत्समृद्धं
द्यूते हृतं पाण्डवमुख्य राज्यम् ॥ ॥ 5-72-42(34467)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि द्विसप्ततितमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-72-3 नैष्ठिकं कर्म यावज्जीवं ब्रह्मचर्यं पारिव्राज्यं च। विहितमिति शेषः ॥ 5-72-4 कार्पण्यं ग्रामपञ्चकं देहीति दीनवचनम् ॥ 5-72-5 वृत्तिः जीविका कर्तुमिति शेषः ॥ 5-72-6 अतिगृद्धाः अत्यन्तलुब्धाः ॥ 5-72-7 पर्याय उपायः। यद्येन बलवत्तां स्वस्येति शेषः ॥ 5-72-9 अनुक्रोशात् भवत्सु कृपातः । कार्पण्यात् स्वस्य दैन्यात्। अलं कर्तुं पूर्णं कर्तुं न समर्थाः ॥ 5-72-10 निमित्तं अशमे कारणम् ॥ 5-72-17 प्रकृतिं पञ्चताम् । मयि मत्समीपे नष्टा प्रकृतिः शौर्यादिरूपः स्वभावो येषाम् ॥ 5-72-19 गौरिव सर्वभोज्येत्युपहासो गौर्गौरिति ॥ 5-72-26 प्रस्कृन्देन चक्राकारया वेदिकया ॥ 5-72-29 द्विधाभावः अयं साधुरसाधुर्वेति संशयः ॥ 5-72-30 प्रातिपौरुषिकान् सर्वपुरुषसाधारणान् ॥ 5-72-35 हते निन्द्यतया नष्टप्राये ॥ 5-72-36 यात्वा गत्वा ॥ 5-72-37 निशम्य आलोच्य ॥ 5-72-40 तर्हि एतन्न स्यादिति शेषः। प्रतिपादयित्वा सञ्जीकृत्य ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.